|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.57. अध्यायः 057
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रति अङ्गराजगुणवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-57-0x(4412)(47000)
अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत्॥ 7-57-1(47001)
तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम्।
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम्॥ 7-57-2(47002)
वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः॥ 7-57-3(47003)
नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः॥ 7-57-4(47004)
यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत्।
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान्॥ 7-57-5(47005)
यः सहस्रं सहस्राणि कन्या हेमविभूषिताः॥
धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः। 7-57-6(47006)
शतं शतसहस्राणि स्वर्णमालानथर्षभान्॥
गवां सहस्रानुचरान्दक्षिणामत्यकालयत्। 7-57-7(47007)
हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः॥
दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु। 7-57-8(47008)
रत्नानां विविधानां च विविधांश्चान्नपर्वतान्॥
तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत्। 7-57-9(47009)
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः॥
`अङ्गस्य यजमानस्य अपि विष्णुपदे वयम्। 7-57-10(47010)
अमाद्यदिन्द्रुः सोमेन दक्षिणाभिर्द्विजातयः।
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः'॥ 7-57-11(47011)
अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः॥ 7-57-12(47012)
स चेन्ममार सृञ्जय चतुर्भद्रतस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-57-13(47013)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये सप्तपञ्चाशत्तमोऽध्यायः॥ 57 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-57-2 राजर्षेः सर्वे देवाः समाययुः इति ढ.पाठः॥ 5-57-4 पूर्णकैः स्वर्णचूडैः। वर्धमानकैः आरार्तिकहस्तैः॥ 5-57-7 धूर्युजा रथाः॥ 5-57-57 सप्तपञ्चाशत्तमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|